संस्कृत में गीता उपदेश

संस्कृत में गीता उपदेश


संस्कृत गीताया उपदेशामृतम्।

महाभारतस्य युद्धे अर्जुनं विषण्णहृदयं दृष्ट् स्य कर्तव्यबोधनार्थं भगवता कृष्णेन य उपदेशो दत्तः, स एव ‘ श्रीमद्भगवद्गीता’ इति नाम्ना प्रसिद्धोऽस्ति । गीतायां भगवता कृष्णेन प्रायः सर्वमपि मनुष्यस्य आवश्यकं कर्तव्यं प्रतिपादितमस्ति । गीतायां ये उपदेशाः सन्ति, तेषां मुख्या एते

सन्ति- (१) अयमात्माऽजरोऽमरश्चास्ति । नायं जायते, न च म्रियते । केनापि प्रकारेण नायं नाशं प्राप्नोति । यथा जीर्णवस्त्रमुत्तार्य नवं वस्त्र धार्यते, तथैव नवशरीरधारणमस्ति।

वासांसि जीर्णानि यथा विहाय, नवानि गृह्णाति नरोऽपराणि। तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही॥ १ ॥

नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः ।

न चैनं क्लेदयन्त्यापो. न शोषयति मारुतः ॥ २ ॥ आत्माऽयम् अजरोऽमरश्चास्ति । अत: कदाचिदपि शोको न करणीयः ।

(२) मनुष्यः स्वकर्मानुसारं पुनर्जन्म प्राप्नोति । मर्त्यः कर्मानुसारं म्रियते च । जातस्य हि ध्रुवो मृत्युर्धुवं जन्म मृतस्य च।

तस्मादपरिहार्येऽर्थे, न त्वं शोचितुमर्हसि ॥३॥

(३) मनुष्यैः सदा निष्कामभावनया कर्म करणीयम् । कर्म कदापि न त्याज्यम्। कर्मण्येवाधिकारस्ते, मा फलेषु कदाचन।

मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ ४ ॥

नियतं कुरु कर्म त्वं, कर्म ज्यायो ह्यकर्मणः । शरीरयात्राऽपि च ते, न प्रसिध्येदकर्मणः ॥ ५ ॥

(४) सर्वैः मनुष्यैः सदा स्वकर्म पालनीयम्। स्वधर्मों न कदाचिदपि त्याज्यः ।

स्वधर्मे निधनं श्रेयः, परधर्मो भयावहः ॥ ६ ॥ (५) मनुष्यैः सदा स्वकीर्तिरक्षा करणीया मरणं वरमस्ति, परन्तु न कीर्तिनाशः ।

संभावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥ ४॥

६) शुभाशुभकर्मणः कदापि नाशा न भवति। शुभं कर्म सदा भयात् त्रायते। नेहाभिक्रमनाशाऽस्ति, प्रत्यवाया न विद्यते।

स्वल्पमप्यस्य धर्मस्य, त्रायते महतो भयात् ॥ ८॥

गातान्या व उपदशा दत्ताः सान्त, ते सर्वे एव जीवनस्यात्नातकारकाः । गौताया उपदेशानुकृलम् आचरण कृल्या सवरप स्वजावनमुन्नतं कतव्यम् । एतदर्थं गोताया: पठनं पाठन चाप कयम्। ‘गाता भुगांता कर्तव्या’ इत।
 

सम्बंधित टॉपिक्स

सदस्य ऑनलाइन

अभी कोई सदस्य ऑनलाइन नहीं हैं।

हाल के टॉपिक्स

फोरम के आँकड़े

टॉपिक्स
1,845
पोस्ट्स
1,883
सदस्य
237
नवीनतम सदस्य
sharif khan
Back
Top