संस्कृत में मानव जीवन का उदेश्य
मानव जीवन का उदेश्य (जीवनस्योद्देश्यम्)
विदुषां कथनमस्ति यत् ‘प्रयोजनमनुद्दिश्य मन्दोऽपि न प्रवर्तते’ । साधारणो जनोऽपि प्रयोजन विना कस्मिंश्चिदपि कार्ये न प्रवृत्तो भवति । मनुष्यो जन्म धारयति । तस्य जीवनस्य किचिदुद्देश्यमवश्यमेव भवेत्। संसारे ये उद्देश्यहीना भवन्ति, ते कदापि सफला न भवन्ति।जीवनस्य किमुदेश्यं स्यादिति विचारे प्रथमतेतत् समक्षं समायाति यत् जीवनस्योद्देश्यं समुत्नतं स्यात्, येन जीवनस्य सफलता स्यात् । समुन्नतेषु उद्देश्येषु देशसेवायाः समाजसेवायाः परोपकारस्य जातेरुद्धरणस्य विद्योन्नतेश्च भावना सम्मुखमायाति। मनुष्यः सामाजिक: प्राणी वर्तते, अतो यदि समाजः समुन्नतोऽस्ति तर्हि सर्वेऽपि सुखिनो भविष्यन्ति। यदि समाजो न समुन्नतोऽस्ति तर्हि सर्वेऽपि विपत्तिग्रस्ता दीना हीनाश्च भविष्यन्ति। यदि देश: पराधीनोऽस्ति तर्हि मनुष्येषु स्वाभिमानस्य भावना न भविष्यति। अतो मनुष्यजीवनस्य मुख्यमु्देश्यं भवति यत् स मानवजीवनस्य साफल्याय परोपकारं कुर्यात्, देशसेवां कुर्यात्, समाजसेवां कुर्यात्, विद्यायाश्चोन्नतिं कुर्यात्। एवं प्रकारेणैव जीवनं सफलं भवति।
जीवनस्य सफलतायै एतदपि सदा प्रयतनीयं यत् स कदाचिदपि पापं न कुर्यात्, कृत्सित क
न कुर्यात् । पवित्रजीवनस्य यापनेनैव जीवनं सफलं भवति। उक्तं च-
मुहूर्तमपि जीवेत, नरः शुक्लेन कर्मणा। न कल्पमपि कृष्णेन, लोकद्रयविरोधिना ॥ १ ॥
मनुष्यजीवने सदा सर्वरैष प्रयत्न: करणीयो यत् स महाविद्वान् महापराक्रमी महायशस्वरो सच्चरित्रो दानी परोपकारी समाजसेवी लोकहितकारी धर्मात्मा च स्याद्, अन्यथा मनुष्यजीवने पशुजीवने च न कोऽपि भेदोऽस्ति । साधूक्तं च
यज्जीव्यते क्षणमपि प्रथितं मनुष्यैर्विज्ञानविक्रमयशोभिरभज्यमानम् । तत्राम जीवितमिह प्रवदन्ति तज्ज्ञाः, काकोऽपि जीवति चिराय बलि च भुङ्क्ते ॥ २ ॥
यो नात्मजे न च गुरौ न च भृत्यवर्गे दीने दयां न कुरुते न च बन्धुवर्गे । किं तस्य जीवितफलेन मनुष्यलोके, काकोऽपि जीवति चिराय बलिं च भुङ्क्ते॥३॥ मनुष्यो जीवननिर्वाहाय यां कामपि आजीविका ग्रहीतुं शक्नोति, पठनं पाठनं कृषि वाणिज्यं सेवाकर्म समाजसेवादिकं वा। परन्तु स सदा जीवनसाफल्याय सत्कर्म अवश्यं कुर्यात् । निरुद्देश्यं जीवनं विनश्यति । अतः कदाचिदपि उद्देश्यत्यागो न विधेयः । मनुष्यस्य सदुद्योगेन सदुद्देश्यमपि अवश्यं पूर्ण भवति ।