निबन्ध की शैली के विषय में इन बातों का ध्यान रखें- १. भाषा व्याकरण की दृष्टि से शुद्ध हो। २. भाषा प्रारम्भ से अंत तक एक-सी हो। ३. भाषा में प्रवाह हो, स्वाभाविकता हो। ४. उपयुक्त और असंदिग्ध शब्दों का प्रयोग करें। ५. भाषा सरल, सरस, सुबोध और आकर्षक हो। ६. लोकोक्ति एवं अलंकारों को भी स्थान दें। ७. अनावश्यक विस्तार, पुनरुक्ति, पाण्डित्य-प्रदर्शन तथा क्लिष्टता का त्याग करें।
संस्कृत में निबन्ध लिखने की शैली
निबन्ध के मुख्यतया तीन भेद हैं
१. वर्णनात्मक निबन्ध-इनमें पक्षु, पक्षी, नदी, ग्राम, नगर, पर्वत, समुद्र, ऋतुवर्णन, यात्रा, पर्व, रेल, तार, विमान आदि का स्पष्ट एवं विस्तृत वर्णन होता है।२. विवरणात्मक निबन्ध-इनमें घटित घटनाओं, युद्धों, प्राचीन कथाओं, ऐतिहासिक वर्णनों, जीवन-चरितों आदि का संग्रह होता है।
३. विचारात्मक निबन्ध- इनमें आध्यात्मिक, मनोविज्ञान-सम्बन्धी, सामाजिक, राजनीतिक तथा अमूर्त विषयों, चिन्ता, क्रोध, अहिंसा सत्य, परोपकार आदि का संग्रह होता है। इन निबन्धों में इन विषयों के गुण, दोष, लाभ, हानि आदि का विचार होता है।
निबन्ध-माला
सत्यमेव जयते नानृतम् । (सत्यम्)
सते अर्थात् कल्याणाय हितं सत्यं भवति। यद् वस्तु यथा विद्यते, तस्य तेनैव रूपेण कथनं प्रकाशनं लेखनं वा सत्यमिति अभिधीयते । परमेश्वरेण जिह्वा सदुपयोगार्थं दत्ता, अत: जिह्वाया: सदुपयोगः सत्यभाषणेन कर्तव्यः ।जगति सत्यस्य यादृशी आवश्यकता विद्यते, न तादृशी अन्यस्य कस्यचिद् वस्तुनः । सत्येनैव समाजस्य स्थितिः वर्तते। यदि सर्वेऽसत्यवादिनो भवेयुस्तर्हि न लोकस्य स्थिति: क्षणमात्रमपि भवितुं शक्नोति। सत्यस्यैव एष महिमा यद् वयं समाजे मनुष्येषु विश्वासं कुर्मः । अत: सिध्यति यत् सत्यं लोकस्याधारोऽस्ति । अत एवोच्यते-
गोभिर्विप्रैश्च वेदैश्च, सतीभिः सत्यवादिभिः। अलुब्धैर्दानशूरैश्च, सप्तभिर्धार्यते
मही॥१
सत्यस्य प्रतिष्ठयैव संसारस्य कल्याणम्, अभ्युदयः, उन्नतिश्च भवन्ति। य: कश्चित् सत्यमाश्रयति, तस्य जीवनं सफलं भवति । अत उच्यते-‘सर्वं सत्ये प्रतिष्ठितम्’। ये सत्यं पालयन्ति, ते सर्वोत्तमं धर्मं कुर्वन्ति। ये च सत्यं परित्यज्य असत्यं भजन्ते, ते महापातकं कुर्वन्ति। यतो हि असत्यभाषणेन स्वस्य हानि: नाशश्च भवतः। समाजस्य देशस्य लोकस्य च मिथ्याभाषणेन नाशो भवति । अत एवोच्यते-नहि सत्यात् परो धर्मो नानृतात् पातकं परम् ।सत्यस्य पालनार्थमेव महाराजो दशरथः प्रियं पुत्रं रामं वनं प्रैषयत्। राजा हरिश्चन्द्र: सत्यपालनार्थमेव सर्वाणि दु:खानि असहत। युधिष्ठिरः सत्यभाषणस्य प्रभावादेव विजयमलभत। महात्मा गांधिमहोदयः सत्यस्यैव सदा शिक्षामदात्। भारतस्य राजचिह्नेऽपि ‘सत्यमेव जयते” इत्यादरेण उल्लिख्यते।
अतः सर्वैरपि लौकिकपारलौकिकाभ्युदयाय सत्यमेव सदा भाषणीयम् ।
अहिंसा परमो धर्मः । (अहिंस)
हिसन हिसेति। कस्यापि पोडनं दुःखदानं वा हिसेति कथ्यते। हिंसा त्रिविधा भवति- मनसा वाचा, कर्मणा च। मनुष्यो यदि कस्यचित् जनस्य अशुभं हानि वा चिन्तयति, सा सानसिकी] हिसा कर्ते। यदि कठोरभाषणेन, कटुप्रलापेन, दुर्वचनेन, असत्यभाषणेन वा कमपि दु खिते करोति, तर्हि सा वाचिकी हिंसा भवति । यदि जन: कस्यापि जीवस्य हननं करोति, ताडनादिना वा दुःखं ददाति, तर्हि सा कायिकी हिंसा भवति। एतासां तिसृणां हिंसानां অरित्यागी ऽहिसेति निगद्यते ।संसारेऽहिंसाया महती उपयोगिता वर्तते। गवादीनां पशूनां यदि हननं न स्यात्तर्हि देशे धनधान्यस्य दुग्धादीनां च न्यूनता न स्यात् । अहिंसया पशवोऽपि मनुष्येषु प्रेम कुर्वन्ति। शत्रवोऽपि अहिंसया मित्राणि भवन्ति मनुष्यस्य आत्माऽपि अहिंसया सुखमनुभवति। अहिंसाया: प्रतिष्ठायां सर्वे सर्वत्र ससुखं निर्भयं च विचरन्ति। एतत्तु सर्वैरनुभूयते एव यत् न कोऽपि जगति स्वविनाशमिच्छति। सर्वे जनाः सुखमिच्छन्ति । यदि एवमेव पशुपक्षिणामपि विषये चिन्त्येत तर्हि न कस्यचिद् हननं कश्चित् करिष्यति। अतएव ऋषिभिः महर्षिभिश्च ‘अहिंसा परमो धर्म’ इत्यङ्गीकृतः । उच्यते च
संसारेऽहिंसाया महती उपयोगिता वर्तते। गवादीनां पशूनां यदि हननं न स्यात्तर्हि देशे धनधान्यस्य दुग्धादीनां च न्यूनता न स्यात्। अहिंसया पशवोऽपि मनुष्येषु प्रेम कुर्वन्ति। शत्रवोऽपि अहिंसया मित्राणि भवन्ति। मनुष्यस्य आत्माऽपि अहिंसया सुखमनुभवति। अहिंसाया: प्रतिष्ठायां सर्वे सर्वत्र ससुखं निर्भयं च विचरन्ति। एतत्तु सर्वैरनुभूयते एव यत् न कोऽपि जगति स्वविनाशमिच्छति। सर्वे जना: सुखमिच्छन्ति। यदि एवमेव पशुपक्षिणामपि विषये चिन्त्येत तर्हि न कस्यचिद् हननं कश्चित् करिष्यति। अतएव ऋषिभिः महर्षिभिश्च ‘अहिंसा परमो धर्म’ इत्यङ्गीकृतः । उच्यते च-
श्रूयतां धर्मसर्वस्वं, श्रुत्वा चैवावधार्यताम् । आत्मनः प्रतिकूलानि, परेषां न समाचरेत्॥ १॥ आत्मौपम्येन भूतेषु, दयां कुर्वन्ति साधवः ॥ २॥ आत्मवत्सर्वभूतेषु, यः पश्यति स पश्यति ॥ ३
अहिसैव धर्ममार्गः। अतएव भगवान् बुद्धः, भगवान् महावीरः, महात्मा गान्धिमहोदयश्च अहिसाया एवोपदेशं दत्तवन्तः । अहिंसाया: प्रचारे एवैतेषां जीवनं व्यतीतम्। महात्मनो गांधि- महोदयस्य संरक्षणे अहिंसाशस्त्रेणैव भारतवर्ष पराधीनतापाशं छित्त्वा स्वतन्त्रतामलभत । अहिंसाशस्त्रेणैव भीता विदेशीया भारतं त्यक्त्वा पलायिताः । एषोऽहिंसाया एव महिमाऽस्ति। यदि संसारे हिंसाया: प्रसारः स्यात् तदा न कोऽपि मनुष्यो देशो वा संसारे सुखेन शान्त्या च
स्थातुं शक्नोति । हिंसया मनुष्य: क्रूरः निर्दयः सद्भावहीनश्च भवति। हिंसके सत्यं त्यागः तपस्या
दया क्षमा प्रेम पवित्रता विमलबुद्धिश्च न भवन्ति ।
अत: सर्वैरपि सर्वदा सर्वभावेन अहिसाधर्म: पालनीयः, लोकस्य च कल्याणं कर्तव्यम्।